|
|
 |
 |
|
|
१४ अश्वमेधिकपर्व.jpg)
॥ श्रीः ॥
14.27. अध्यायः 027
अथानुगीतापर्व-2
Mahabharata - Ashvamedhika Parva - Chapter Topics
कृष्णेन युधिष्ठिरंप्रति प्रजापतिना एकेनैव शब्देन परब्रह्मोपदेशे देवर्ष्यादीनां स्वस्वयोग्यतानुसारेण नानार्थावगमप्रतिपादकब्राह्मणदंपतिसंवादानुवादः॥ 1 ॥
Mahabharata - Ashvamedhika Parva - Chapter Text
ब्राह्मण उवाच।
एकः शास्ता न द्वितीयोस्ति शास्ता
यो हृच्छयस्तमहमनु ब्रवीमि।
तेनैव युक्तः प्रवणादिवोदकं
यथा नियुक्तोस्मि तथा वहामि॥ 14-27-1(93143)
एको गुरुर्नास्ति ततो द्वितीयो
यो हृच्छयस्तमहमनु ब्रवीमि।
तेनानुशिष्टा गुरुणा सदैव
पुरा हता दानवाः सर्व एव॥ 14-27-2(93144)
एको बन्धुर्नास्ति ततो द्वितीयो
यो हृच्छयस्तमहमनु ब्रवीमि।
तेनानुशिष्टा बान्धवा बन्धुमन्तः
सप्तर्षयः पार्थ दिवि प्रभान्ति॥ 14-27-3(93145)
एकः श्रोता नास्ति ततो द्वितीयो
यो हृच्छयस्तमहमनु ब्रवीमि।
तस्मिन्गुरौ गुरुवासं निरुष्यट
शक्रो गतः सर्वलोकामरत्वम्॥ 14-27-4(93146)
एको द्वेष्टा नास्ति ततो द्वितीयो
यो हृच्छयस्तमहमनु ब्रवीमि।
तेनानुशिष्टा गुरुणा सदैव
लोके द्विष्टाः पन्नगाः सर्व एव॥ 14-27-5(93147)
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
प्रजापतौ पन्नगानां देवर्षीणां च संविदम्॥ 14-27-6(93148)
देवर्षयश्च नागाश्चाप्यसुराश्च प्रजापतिम्।
पर्यपृच्छन्नुपासीनं श्रेयोः नः प्रोच्यतामिति॥ 14-27-7(93149)
तेषां प्रोवाच भगवाञ्श्रेयः समनुपृच्छताम्।
ओमित्येकाक्षरं ब्रह्म ते श्रुत्वा प्राद्रवन्दिशः॥ 14-27-8(93150)
तेषां प्रद्रवमाणानामुपदेशं च शृण्वताम्।
सर्पाणां दंशने भावः प्रवृत्तः पूर्वमे तु॥ 14-27-9(93151)
असुराणां प्रवृत्तस्तु दंभभावः स्वभावजः।
दानं देवा व्यवसिता दममेव महर्षयः॥ 14-27-10(93152)
एकं शास्तारमासाद्य शब्देनैकेन संस्कृताः।
नानाव्यवसिताः सर्वे सर्पदेवर्षिदानवाः॥ 14-27-11(93153)
शृणोत्ययं प्रोच्यमानं गृह्णाति च यथातथम्।
पृच्छतस्तदतो भूयो गुरुरन्यो न विद्यते॥ 14-27-12(93154)
तस्य चानुमते कर्म ततः पश्चात्प्रवर्तते।
गुरुर्बन्धुश्च शास्ता च द्वेष्टा च हृदि संश्रिताः॥ 14-27-13(93155)
पापेन विचरँल्लोके पापचारी भवत्ययम्।
शुभेन विचरँल्लोके शुभचारी भवत्युत॥ 14-27-14(93156)
कामचारी तु कामेन य हन्द्रियसुखे रतः।
ब्रह्मचारी सदैवैष य इन्द्रियजये रतः॥ 14-27-15(93157)
अपेतव्रतकर्मा तु केवलं ब्रह्मणि स्थितः।
ब्रह्मभूतश्चरँल्लोके ब्रह्मचारी भवत्ययम्॥ 14-27-16(93158)
ब्रह्मैव समिधस्तस्य ब्रह्माग्निर्ब्रह्मसंस्तरः।
आपो ब्रह्म गुरुर्ब्रह्म स ब्रह्मणि समाहितः॥ 14-27-17(93159)
एतदेवेदृशं सूक्ष्मं ब्रह्मचर्यं विदुर्बुधाः।
विदित्वा चान्वपद्यन्त क्षेत्रज्ञेनानुदर्शिताः॥ ॥ 14-27-18(93160)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि सप्तविंशोऽध्यायः॥ 27 ॥
Mahabharata - Ashvamedhika Parva - Chapter Footnotes
7-27-1 एकः शास्ता न द्वितीयोस्ति कश्चिद्यथा नियुक्तोऽस्मि तथा चरामि। हृद्येष तिष्ठन्पुरुषः शास्ति शास्ता तेनानुयुक्तः प्रवणादिवोदकमिति क.ट.द.पाठः॥ 7-27-7 देवाश्च ऋषयश्चेति द्वन्द्वः॥ 7-27-8 प्राद्रवन्प्रतिपेदिरे। दिशो बहून्मार्गान्॥ 7-27-13 गुरुर्बोद्धा च श्रोता च द्वेष्टा च हृदि निःसृत इति झ.पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|